Sukta 1.44
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥
अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः । असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥
ágne pū́rvā ánūṣáso vibhāvaso dī́detha viśvá-darśataḥ | ási grā́meṣv avitā́ puró-hito’ si yajñéṣu mā́nuṣaḥ ||
O Agni, from the earliest dawns you shine forth, O radiant one, visible to all. You are the helper in the settlements; you are the one set in front, in the human sacrifices.
अग्ने॑ । पूर्वाः॑ । अनु॑ । उ॒षसः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । दी॒देथ॑ । वि॒श्वऽद॑र्शतः । असि॑ । ग्रामे॑षु । अ॒वि॒ता । पु॒रःऽहि॑तः । असि॑ । य॒ज्ञेषु॑ । मानु॑षः ॥अग्ने । पूर्वाः । अनु । उषसः । विभावसो इति विभावसो । दीदेथ । विश्वदर्शतः । असि । ग्रामेषु । अविता । पुरःहितः । असि । यज्ञेषु । मानुषः ॥agne | pūrvāḥ | anu | uṣasaḥ | vibhāvaso itivibhāvaso | dīdetha | viśva-darśataḥ | asi | grāmeṣu | avitā | puraḥ-hitaḥ | asi | yajñeṣu | mānuṣaḥ