Sukta 1.44
होतारं विश्ववेदसं सं हि त्वा विश इन्धते । स आ वह पुरुहूत प्रचेतसोऽग्ने देवाँ इह द्रवत् ॥
होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ । स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥
hótāraṃ viśvá-vedasaṃ sáṃ hí tvā víśa indháte | sá ā́ vaha puruhūta prá-cetaso’gne devā́m̐ ihá drávat ||
As the Hotar, the knower of all, the peoples indeed kindle you together. Therefore, O Agni, much-invoked and wide-conscious, bring the gods here—run swiftly (to accomplish it).
होता॑रम् । वि॒श्वऽवे॑दसम् । सम् । हि । त्वा॒ । विशः॑ । इ॒न्धते॑ । सः । आ । व॒ह॒ । पु॒रु॒ऽहू॒त॒ । प्रऽचे॑तसः । अग्ने॑ । दे॒वान् । इ॒ह । द्र॒वत् ॥होतारम् । विश्ववेदसम् । सम् । हि । त्वा । विशः । इन्धते । सः । आ । वह । पुरुहूत । प्रचेतसः । अग्ने । देवान् । इह । द्रवत् ॥hotāram | viśva-vedasam | sam | hi | tvā | viśaḥ | indhate | saḥ | ā | vaha | puru-hūta | pra-cetasaḥ | agne | devān | iha | dravat