Sukta 1.44
सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः । प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥
सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्व॒: स्वा॑हुतः । प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जन॑म् ॥
suśáṃso bodhi gṛṇaté yaviṣṭhya mádhu-jihvaḥ svā́hutaḥ | práskaṇvasya pratírann ā́yur jīváse namasyā́ daívyaṃ jánam ||
Become fully awake and auspiciously manifest to the singer, O ever-young one—sweet-tongued, well-invoked. For Praskaṇva, winning back (and extending) life for living, do thou make obeisance to the divine people (the gods) and draw them near.
सु॒शंसः॑ । बो॒धि॒ । गृ॒ण॒ते । य॒वि॒ष्ठ्य॒ । मधु॑ऽजिह्वः । सुऽआ॑हुतः । प्रस्क॑ण्वस्य । प्र॒ऽति॒रन् । आयुः॑ । जी॒वसे॑ । न॒म॒स्य । दैव्य॑म् । जन॑म् ॥सुशंसः । बोधि । गृणते । यविष्ठ्य । मधुजिह्वः । सुआहुतः । प्रस्कण्वस्य । प्रतिरन् । आयुः । जीवसे । नमस्य । दैव्यम् । जनम् ॥suśaṃsaḥ | bodhi | gṛṇate | yaviṣṭhya | madhu-jihvaḥ | su-āhutaḥ | praskaṇvasya | pra-tiran | āyuḥ | jīvase | namasya | daivyam | janam