Sukta 1.44
श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे । देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥
श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ । दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु ॥
śréṣṭhaṃ yáviṣṭham átithiṃ svā́hutaṃ júṣṭaṃ jánāya dāśúṣe | devā́m̐ ácchā yā́tave jā́tavedasam agním īḷe vyùṣṭiṣu ||
I adore Agni, the most excellent and the youngest, the Guest well-called by our offering, gladly accepted for the people who give. He is Jātavedas who can lead the gods hither; I invoke him in the successive dawnings (of awakening).
श्रेष्ठ॑म् । यवि॑ष्ठम् । अति॑थिम् । सुऽआ॑हुतम् । जुष्टम् । जना॑य । दा॒शुषे॑ । दे॒वान् । अच्छ॑ । यात॑वे । जा॒तऽवे॑दसम् । अ॒ग्निम् । ई॒ळे॒ । विऽउ॑ष्टिषु ॥श्रेष्ठम् । यविष्ठम् । अतिथिम् । सुआहुतम् । जुष्टम् । जनाय । दाशुषे । देवान् । अच्छ । यातवे । जातवेदसम् । अग्निम् । ईळे । विउष्टिषु ॥śreṣṭham | yaviṣṭham | atithim | su-āhutam | juṣṭam | janāya | dāśuṣe | devān | accha | yātave | jāta-vedasam | agnim | īḷe | vi-uṣṭiṣu