Sukta 1.44
अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् । धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥
अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् । धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रिय॑म् ॥
adyā́ dūtáṃ vṛṇīmahe vásum agníṃ purupriyám | dhūmakétuṃ bhā́ṛjīkaṃ vyùṣṭiṣu yajñā́nām adhvaraśríyam ||
Today we choose as messenger the good treasure—Agni, beloved of many. The smoke-bannered, radiant-keen, he is the beauty of the sacrifice in the dawn-unfoldings, the splendour that leads the rite on its way.
अ॒द्य । दू॒तम् । वृ॒णी॒म॒हे॒ । वसु॑म् । अ॒ग्निम् । पु॒रु॒ऽप्रि॒यम् । धू॒मऽके॑तुम् । भाःऽऋ॑जीकम् । विऽउ॑ष्टिषु । य॒ज्ञाना॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् ॥अद्य । दूतम् । वृणीमहे । वसुम् । अग्निम् । पुरुप्रियम् । धूमकेतुम् । भाःऋजीकम् । विउष्टिषु । यज्ञानाम् । अध्वरश्रियम् ॥adya | dūtam | vṛṇīmahe | vasum | agnim | puru-priyam | dhūma-ketum | bhāḥ-ṛjīkam | vi-uṣṭiṣu | yajñānām | adhvara-śriyam