Sukta 1.44
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् । सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥
जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणा॑म् । स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
júṣṭo hí dūtó ási havyavā́hano 'gné rathī́r adhvarā́ṇām | sajū́r aśvíbhyām uṣásā suvī́ryam asmḗ dhēhi śrávo bṛhát ||
For you are the accepted messenger, O Agni, bearer of the offering, the charioteer of the journeys of sacrifice. In one accord with the Aśvins and with Dawn, set in us heroic power of a good lineage, and a vast, uplifting fame of the soul.
जुष्टः॑ । हि । दू॒तः । असि॑ । ह॒व्य॒ऽवाहनः । अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् । स॒ऽजूः । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । सु॒ऽवीर्य॑म् । अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥जुष्टः । हि । दूतः । असि । हव्यवाहनः । अग्ने । रथीः । अध्वराणाम् । सजूः । अश्विभ्याम् । उषसा । सुवीर्यम् । अस्मे इति । धेहि । श्रवः । बृहत् ॥juṣṭaḥ | hi | dūtaḥ | asi | havya-vāhanaḥ | agne | rathīḥ | adhvarāṇām | sa-jūḥ | aśvi-bhyām | uṣasā | su-vīryam | asme iti | dhehi | śravaḥ | bṛhat