Sukta 1.44
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य । आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥
अग्ने॒ विव॑स्वदु॒षस॑श्चि॒त्रं राधो॑ अमर्त्य । आ दा॒शुषे॑ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुध॑: ॥
agné vívasvad uṣásaś citráṃ rā́dho amartya | ā́ dāśúṣe jātavēdo vahā́ tvám adyā́ devā́ṃ uṣárbudhaḥ ||
O Agni, immortal, grant the many-hued fullness that comes with the Dawn’s awakening. To the giver, O Jātavedas, do you today bring the gods who wake with the light.
अग्ने॑ । विव॑स्वत् । उ॒षसः॑ । चि॒त्रम् । राधः॑ । अ॒म॒र्त्य॒ । आ । दा॒शुषे॑ । जा॒त॒ऽवे॒दः॒ । व॒ह॒ । त्वम् । अ॒द्य । दे॒वाम् । उ॒षः॒ऽबुधः॑ ॥अग्ने । विवस्वत् । उषसः । चित्रम् । राधः । अमर्त्य । आ । दाशुषे । जातवेदः । वह । त्वम् । अद्य । देवाम् । उषःबुधः ॥agne | vivasvat | uṣasaḥ | citram | rādhaḥ | amartya | ā | dāśuṣe | jāta-vedaḥ | vaha | tvam | adya | devām | uṣaḥ-budhaḥ