Sukta 1.44
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः । आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः । आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥
śrudhí śrut-kárṇa váhni-bhir deváiḥ agne sayā́va-bhiḥ | ā́ sīdantu barhíṣi mitró aryamā́ prātar-yā́vāṇo adhvarám ||
Hear, O keen-eared Agni, together with the gods who bear the offering, your companions in the journey. Let Mitra and Aryaman, who come in the morning, sit down upon the sacred grass, (to share) the sacrifice.
श्रु॒धि । श्रु॒त्ऽक॒र्ण॒ । वह्नि॑ऽभिः । दे॒वैः । अ॒ग्ने॒ । स॒याव॑ऽभिः । आ । सी॒द॒न्तु॒ । ब॒र्हिषि॑ । मि॒त्रः । अ॒र्य॒मा । प्रा॒तः॒ऽयावा॑नः । अ॒ध्व॒रम् ॥श्रुधि । श्रुत्कर्ण । वह्निभिः । देवैः । अग्ने । सयावभिः । आ । सीदन्तु । बर्हिषि । मित्रः । अर्यमा । प्रातःयावानः । अध्वरम् ॥śrudhi | śrut-karṇa | vahni-bhiḥ | devaiḥ | agne | sayāva-bhiḥ | ā | sīdantu | barhiṣi | mitraḥ | aryamā | prātaḥ-yāvānaḥ | adhvaram