Sukta 1.44
यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् । सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः ॥
यद्दे॒वानां॑ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्य॑म् । सिन्धो॑रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा॑जन्ते अ॒र्चय॑: ॥
yád devā́nāṃ mitra-mahaḥ puró-hito’ntáro yā́si dū́tyam | síndhor iva prá-svanitāsa ū́rmayo’gnér bhrā́jante arcáyaḥ ||
When, O friend of the gods, set in front, you move between them on the mission of mediation, then the flames of Agni shine—like the loudly sounding waves of a river.
यत् । दे॒वाना॑म् । मि॒त्र॒ऽम॒हः॒ । पु॒रःऽहितः । अन्त॑रः । यासि॑ । दू॒त्य॑म् । सिन्धोः॑ऽइव । प्रऽस्व॑नितासः । ऊ॒र्मयः॑ । अ॒ग्नेः । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ ॥यत् । देवानाम् । मित्रमहः । पुरःहितः । अन्तरः । यासि । दूत्यम् । सिन्धोःइव । प्रस्वनितासः । ऊर्मयः । अग्नेः । भ्राजन्ते । अर्चयः ॥yat | devānām | mitra-mahaḥ | puraḥ-hitaḥ | antaraḥ | yāsi | dūtyam | sindhoḥ-iva | pra-svanitāsaḥ | ūrmayaḥ | agneḥ | bhrājante | arcayaḥ