Sukta 1.44
शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः । पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥
शृ॒ण्वन्तु॒ स्तोमं॑ म॒रुत॑: सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृध॑: । पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥
śṛṇvántu stómaṃ marútaḥ sudā́navo’gnijihvā́ ṛtāvṛ́dhaḥ | píbatú sómaṃ váruṇo dhṛtávrato’śvíbhyām uṣásā sajū́ḥ ||
Let the Maruts—noble givers, whose tongues are flames and who increase the cosmic Truth—hear this hymn of affirmation. Let Varuṇa, firm in the law he holds, drink the Soma of inner delight, together with the Aśvins and with Uṣas (the Dawn) in a single harmony.
शृ॒ण्वन्तु॑ । सोम॑म् । म॒रुतः॑ । सु॒ऽदान॑वः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ । पिब॑तु । सोम॑म् । वरु॑णः । धृ॒तऽव्र॑तः । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः ॥शृण्वन्तु । सोमम् । मरुतः । सुदानवः । अग्निजिह्वाः । ऋतवृधः । पिबतु । सोमम् । वरुणः । धृतव्रतः । अश्विभ्याम् । उषसा । सजूः ॥śṛṇvantu | somam | marutaḥ | su-dānavaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | pibatu | somam | varuṇaḥ | dhṛta-vrataḥ | aśvi-bhyām | uṣasā | sa-jūḥ