Sukta 1.43
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति । यथा विश्वे सजोषसः ॥
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति । यथा॒ विश्वे॑ स॒जोष॑सः ॥
yáthā no mitró váruṇo yáthā rudráś cíkētati | yáthā víśve sajóṣasaḥ ||
May it be for us as Mitra and Varuṇa perceive and uphold; may it be as Rudra makes the right awareness awake; may it be as all the Powers, in one accord, consent and work together within us.
यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । यथा॑ । रु॒द्रः । चिके॑तति । यथा॑ । विश्वे॑ । स॒ऽजोष॑सः ॥यथा । नः । मित्रः । वरुणः । यथा । रुद्रः । चिकेतति । यथा । विश्वे । सजोषसः ॥yathā | naḥ | mitraḥ | varuṇaḥ | yathā | rudraḥ | ciketati | yathā | viśve | sa-joṣasaḥ