Sukta 1.43
यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम् ॥
यथा॑ नो॒ अदि॑ति॒: कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ । यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥
yáthā no áditiḥ kárat páśve nṛ́-bhyo yáthā gáve | yáthā tokā́ya rudríyam ||
So may Aditi work for us—well-being for our life-forces and for our human energies, well-being for our luminous herds; so also for our offspring may there be Rudra’s healing grace.
यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृऽभ्यः॑ । यथा॑ । गवे॑ । यथा॑ । तो॒काय॑ । रु॒द्रिय॑म् ॥यथा । नः । अदितिः । करत् । पश्वे । नृभ्यः । यथा । गवे । यथा । तोकाय । रुद्रियम् ॥yathā | naḥ | aditiḥ | karat | paśve | nṛ-bhyaḥ | yathā | gave | yathā | tokāya | rudriyam