Sukta 1.40
को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् । प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥
को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् । प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥
kó deva-yántam aśnavaj jánaṃ kó vṛktá-barhiṣam | prá-pra dāśvā́n pastyā́bhir asthita antar-vā́vat kṣáyaṃ dadhé ||
Who attains the man who seeks the Divine, who (attains) the sacrificer with the strewn seat? The giver advances again and again with his dwelling-grounds; he establishes a home of inward wideness, a settled habitation within.
कः । दे॒व॒ऽयन्त॑म् । अ॒श्न॒व॒त् । जन॑म् । कः । वृ॒क्तऽब॑र्हिषम् । प्रऽप्र॑ । दा॒श्वान् । प॒स्त्या॑भिः । अ॒स्थि॒त॒ । अ॒न्तः॒ऽवाव॑त् । क्षय॑म् । द॒धे॒ ॥कः । देवयन्तम् । अश्नवत् । जनम् । कः । वृक्तबर्हिषम् । प्रप्र । दाश्वान् । पस्त्याभिः । अस्थित । अन्तःवावत् । क्षयम् । दधे ॥kaḥ | deva-yantam | aśnavat | janam | kaḥ | vṛkta-barhiṣam | pra-pra | dāśvān | pastyābhiḥ | asthita | antaḥ-vāvat | kṣayam | dadhe