Sukta 1.40
तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् । इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥
तमिद्वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् । इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥
tám íd vocemā vidáthēṣu śambhúvaṃ mántraṃ devā anéhasam | imā́ṃ ca vā́caṃ prati-háryathā naro víśved vāmā́ vo aśnavat ||
That mantra, O Gods, we would utter in the gatherings—a beneficent word, unwearied. And this speech too, O heroic ones, accept and cherish, so that all desirable boons may reach you and return to us in fulfilment.
तम् । इत् । वो॒चे॒म॒ । वि॒दथे॑षु । श॒म्भुव॑म् । मन्त्र॑म् । दे॒वाः॒ । अ॒ने॒हस॑म् । इ॒माम् । च॒ । वाच॑म् । प्रति॒ऽहर्य॑थ । न॒रः॒ । विश्वा॑ । इत् । वा॒मा । वः॒ । अ॒श्न॒व॒त् ॥तम् । इत् । वोचेम । विदथेषु । शम्भुवम् । मन्त्रम् । देवाः । अनेहसम् । इमाम् । च । वाचम् । प्रतिहर्यथ । नरः । विश्वा । इत् । वामा । वः । अश्नवत् ॥tam | it | vocema | vidatheṣu | śambhuvam | mantram | devāḥ | anehasam | imām | ca | vācam | prati-haryatha | naraḥ | viśvā | it | vāmā | vaḥ | aśnavat