Sukta 1.40
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥
prá nūnáṃ bráhmaṇaspátir mántraṃ vadaty ukthyám | yásminn índro váruṇo mitró aryamā́ devā́ okā́ṃsi cakriré ||
Now Brahmaṇaspati speaks forth the mantric utterance worthy of the hymn—within which Indra, Varuṇa, Mitra, Aryaman, the Gods, have made their dwelling-places: powers seated in the formed word.
प्र । नू॒नम् । ब्रह्म॑णः । पतिः॑ । मन्त्र॑म् । व॒द॒ति॒ । उ॒क्थ्य॑म् । यस्मि॑न् । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । दे॒वाः । ओकां॑सि । च॒क्रि॒रे ॥प्र । नूनम् । ब्रह्मणः । पतिः । मन्त्रम् । वदति । उक्थ्यम् । यस्मिन् । इन्द्रः । वरुणः । मित्रः । अर्यमा । देवाः । ओकांसि । चक्रिरे ॥pra | nūnam | brahmaṇaḥ | patiḥ | mantram | vadati | ukthyam | yasmin | indraḥ | varuṇaḥ | mitraḥ | aryamā | devāḥ | okāṃsi | cakrire