Sukta 1.40
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥
práitu bráhmaṇaspátiḥ prá devyétu sūnṛ́tā | ácchā vīráṃ náryaṃ paṅktí-rādhasam devā́ yajñáṃ nayantu naḥ ||
Let Brahmaṇaspati go forth; let the divine Power of true speech move forward. Toward the hero, the manly strength and the ordered plenitude—may the Gods lead our sacrifice, guiding our inner offering to its fulfilment.
प्र । ए॒तु॒ । ब्रह्म॑णः । पतिः॑ । प्र । दे॒वी । ए॒तु॒ । सू॒नृता॑ । अच्छ॑ । वी॒रम् । नर्य॑म् । प॒ङ्क्तिऽरा॑धसम् । दे॒वाः । य॒ज्ञम् । न॒य॒न्तु॒ । नः॒ ॥प्र । एतु । ब्रह्मणः । पतिः । प्र । देवी । एतु । सूनृता । अच्छ । वीरम् । नर्यम् । पङ्क्तिराधसम् । देवाः । यज्ञम् । नयन्तु । नः ॥pra | etu | brahmaṇaḥ | patiḥ | pra | devī | etu | sūnṛtā | accha | vīram | naryam | paṅkti-rādhasam | devāḥ | yajñam | nayantu | naḥ