Sukta 1.4
उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः । स्यामेदिन्द्रस्य शर्मणि ॥
उ॒त न॑: सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑: । स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
utá naḥ subhágā̃n arír vocéyur dasma kṛ́ṣṭayaḥ | syā́ma éd índrasya śármaṇi ||
And may the peoples speak of us as bearers of the luminous good-fortune, O Wonder-worker; may we indeed abide in the protecting peace of Indra.
उ॒त । नः॒ । सु॒भगा॑न् । अ॒रिः । वो॒चेयुः॑ । द॒स्म॒ । कृ॒ष्टयः॑ । स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि ॥उत । नः । सुभगान् । अरिः । वोचेयुः । दस्म । कृष्टयः । स्याम । इत् । इन्द्रस्य । शर्मणि ॥uta | naḥ | subhagān | ariḥ | voceyuḥ | dasma | kṛṣṭayaḥ | syāma | it | indrasya | śarmaṇi