Sukta 1.38
मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु । यातेमखिद्रयामभिः ॥
मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ । या॒तेमखि॑द्रयामभिः ॥
marúto vīḷupāṇíbhiś citrā́ ródhasvatīr ánu | yātém ákhidrayāmabhiḥ ||
O Maruts, with your firm-grasping hands follow after the many-colored, barrier-bearing powers; come with your unbroken courses, energies that do not fail in the journey of the soul.
मरु॑तः । वी॒ळु॒पा॒णिऽभिः॑ । चि॒त्राः । रोध॑स्वतीः । अनु॑ । या॒त । ई॒म् । अखि॑द्रयामऽभिः ॥मरुतः । वीळुपाणिभिः । चित्राः । रोधस्वतीः । अनु । यात । ईम् । अखिद्रयामभिः ॥marutaḥ | vīḷupāṇi-bhiḥ | citrāḥ | rodhasvatīḥ | anu | yāta | īm | akhidrayāma-bhiḥ