Sukta 1.35
हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते । अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते । अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥
híraṇyapāṇiḥ savitā́ vícarṣaṇir ubhé dyā́vāpṛthivī́ antár īyate | apā́mīvāṁ bā́dhate véti sū́ryam abhí kṛṣṇéna rájasā dyā́m ṛṇoti ||
Golden-handed Savitṛ, the wide-seeing, moves between Heaven and Earth. He drives away affliction; he goes toward the Sun; with dark rajas he covers the sky—so that what is unripe in us may be veiled, and what is ready may be led by his healing vision.
हिर॑ण्यऽपाणिः । स॒वि॒ता । विऽच॑र्षणिः । उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तः । ई॒य॒ते॒ । अप॑ । अमी॑वाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् । ऋ॒णो॒ति॒ ॥हिरण्यपाणिः । सविता । विचर्षणिः । उभे इति । द्यावापृथिवी इति । अन्तः । ईयते । अप । अमीवाम् । बाधते । वेति । सूर्यम् । अभि । कृष्णेन । रजसा । द्याम् । ऋणोति ॥hiraṇya-pāṇiḥ | savitā | vi-carṣaṇiḥ | ubhe iti | dyāvāpṛthivī iti | antaḥ | īyate | apa | amīvām | bādhate | veti | sūryam | abhi | kṛṣṇena | rajasā | dyām | ṛṇoti