Sukta 1.35
अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् । हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥
अ॒ष्टौ व्य॑ख्यत्क॒कुभ॑: पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् । हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥
aṣṭáu vy akhyat kakúbhaḥ pṛthivyā́s trī́ dhánva yójanā saptá síndhūn | hiraṇyākṣáḥ savitā́ devá ā́gād dádhad rátnā dāśúṣe vā́ryāṇi ||
He has made known the eight directions of the earth, the three expanses, the measures of the paths, the seven rivers. Golden-eyed Savitṛ has come, bearing treasures for the giver—gifts of luminous value that widen the being and set it in the right world-measure.
अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः॑ । पृ॒थि॒व्याः । त्री । धन्व॑ । योज॑ना । स॒प्त । सिन्धू॑न् । हि॒र॒ण्य॒ऽअ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध॑त् । रत्ना॑ । दा॒शुषे॑ । वार्या॑णि ॥अष्टौ । वि । अख्यत् । ककुभः । पृथिव्याः । त्री । धन्व । योजना । सप्त । सिन्धून् । हिरण्यअक्षः । सविता । देवः । आ । अगात् । दधत् । रत्ना । दाशुषे । वार्याणि ॥aṣṭau | vi | akhyat | kakubhaḥ | pṛthivyāḥ | trī | dhanva | yojanā | sapta | sindhūn | hiraṇya-akṣaḥ | savitā | devaḥ | ā | agāt | dadhat | ratnā | dāśuṣe | vāryāṇi