Sukta 1.35
हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ् । अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥
híraṇyahasto ásuraḥ sunī́thaḥ sumṛḷīkáḥ svávāṁ yātv arvā́ṅ | apasédhan rákṣaso yātudhā́nān ásthād deváḥ pratidóṣaṁ gṛṇā́naḥ ||
Golden-handed, sovereign, of good guidance, gracious and self-possessed—let Savitṛ come toward us. Driving back the Rakṣasas and the yātudhānas, the god has taken his stand at every dusk, being hymned: may the hostile formations of darkness be barred, and the right impulsion guard the gates of our night.
हिर॑ण्यऽहस्तः । असु॑रः । सु॒ऽनी॒थः । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् । अ॒प॒ऽसेध॑न् । र॒क्षसः॑ । या॒तु॒ऽधाना॑न् । अस्था॑त् । दे॒वः । प्र॑तिऽदो॒षम् । गृ॒णा॒नः ॥हिरण्यहस्तः । असुरः । सुनीथः । सुमृळीकः । स्ववान् । यातु । अर्वाङ् । अपसेधन् । रक्षसः । यातुधानान् । अस्थात् । देवः । प्रतिदोषम् । गृणानः ॥hiraṇya-hastaḥ | asuraḥ | su-nīthaḥ | su-mṛḷīkaḥ | sva-vān | yātu | arvāṅ | apa-sedham | rakṣasaḥ | yātu-dhānān | asthāt | devaḥ | prati-doṣam | gṛṇānaḥ