Sukta 1.35
वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः । क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः । क्वे॒३॒॑दानीं॒ सूर्य॒: कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥
ví suparṇó antárikṣāṇy akhyad gabhīrávepā ásuraḥ sunī́thaḥ | kvèdānī́ṁ sū́ryaḥ káś ciketa katamā́ṁ dyā́ṁ raśmírasya tatāna ||
The fair-winged one has discerned the mid-worlds; the deep-vibrating, sovereign power of good guidance. Where now is the Sun? Who has truly perceived it? To which heaven has his ray been stretched?—the seeker asks, because the light withdraws into subtlety and must be found by inner knowing.
वि । सु॒ऽप॒र्णः । अ॒न्तरि॑क्षाणि । अ॒ख्य॒त् । ग॒भी॒रऽवे॑पाः । असु॒रः । सु॒ऽनी॒थः । क्व॑ । इ॒दानी॒म् । सूर्यः॑ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒ ॥वि । सुपर्णः । अन्तरिक्षाणि । अख्यत् । गभीरवेपाः । असुरः । सुनीथः । क्व । इदानीम् । सूर्यः । कः । चिकेत । कतमाम् । द्याम् । रश्मिः । अस्य । आ । ततान ॥vi | su-parṇaḥ | antarikṣāṇi | akhyat | gabhīra-vepāḥ | asuraḥ | su-nīthaḥ | kva | idānīm | sūryaḥ | kaḥ | ciketa | katamām | dyām | raśmiḥ | asya | ā | tatāna