Sukta 1.35
तिस्रो द्यावः सवितुर्द्वा उपस्थाँ एका यमस्य भुवने विराषाट् । आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥
ति॒स्रो द्याव॑: सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् । आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
tisró dyā́vaḥ savitúr dvā́ upásthā́m ékā yámasya bhúvane virāṣā́ṭ | āṇíṁ na rathyám amṛ́tā́dhi tasthur ihá bravītu yá u tát cikétat ||
Three heavens are of Savitṛ; two are his seats of support, and one is in Yama’s world, shining wide. Like a wheel-nave on the chariot, the immortals have taken their stand upon it. Let him speak here who truly knows that mystery—how the deathless order is founded even where mortality is faced.
ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पऽस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् । आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊँ॒ इति॑ । तत् । चिके॑तत् ॥तिस्रः । द्यावः । सवितुः । द्वौ । उपस्था । एका । यमस्य । भुवने । विराषाट् । आणिम् । न । रथ्यम् । अमृता । अधि । तस्थुः । इह । ब्रवीतु । यः । ऊँ इति । तत् । चिकेतत् ॥tisraḥ | dyāvaḥ | savituḥ | dvau | upa-sthā | ekā | yamasya | bhuvane | virāṣāṭ | āṇim | na | rathyam | amṛtā | adhi | tasthuḥ | iha | bravītu | yaḥ | oṃ iti | tat | ciketat