Sukta 1.35
वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रउगं वहन्तः । शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥
वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः । शश्व॒द्विश॑: सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥
ví jánāñ chyāvā́ḥ śitipā́do akhyan ráthaṁ híraṇyapraugaṁ váhantaḥ | śáśvad víśaḥ savitúr daívyasyópasthe víśvā bhúvanāni tasthuḥ ||
The dark ones with bright feet perceive the peoples, bearing the chariot with its golden front. Ever the clans stand in the lap of the divine Savitṛ; all the worlds take their station—held in his sustaining embrace, the movements of life find their ordered place.
वि । जना॑न् । श्या॒वाः । शि॒ति॒ऽपादः॑ । अ॒ख्य॒न् । रथ॑म् । हिर॑ण्यऽप्रऽउग॒म् । वह॑न्तः । शश्व॑त् । विशः॑ । स॒वि॒तुः । दैव्य॑स्य । उ॒पऽस्थे॑ । विश्वा॑ । भुव॑नानि । त॒स्थुः॒ ॥वि । जनान् । श्यावाः । शितिपादः । अख्यन् । रथम् । हिरण्यप्रउगम् । वहन्तः । शश्वत् । विशः । सवितुः । दैव्यस्य । उपस्थे । विश्वा । भुवनानि । तस्थुः ॥vi | janān | śyāvāḥ | śiti-pādaḥ | akhyan | ratham | hiraṇya-pra-ugam | vahantaḥ | śaśvat | viśaḥ | savituḥ | daivyasya | upa-sthe | viśvā | bhuvanāni | tasthuḥ