Sukta 1.35
याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् । आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥
yā́ti deváḥ právatā yā́ty udvátā yā́ti śubhrā́bhyāṁ yajató háribhyām | ā́ devó yā́ti savitā́ parāváto'pa víśvā duritā́ bā́dhamānaḥ ||
The god goes by the descending path and he goes by the ascending; he goes with his two bright, tawny steeds worthy of worship. Savitṛ comes from the far beyond, thrusting away all our crookedness and distress—so the being may travel rightly in every slope of life.
याति॑ । दे॒वः । प्र॒ऽवता॑ । याति॑ । उ॒त्ऽवता॑ । याति॑ । शु॒भ्राभ्या॑म् । य॒ज॒तः । हरि॑ऽभ्याम् । आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒ऽवतः॑ । अप॑ । विश्वा॑ । दुःऽइ॒ता । बाध॑मानः ॥याति । देवः । प्रवता । याति । उत्वता । याति । शुभ्राभ्याम् । यजतः । हरिभ्याम् । आ । देवः । याति । सविता । परावतः । अप । विश्वा । दुःइता । बाधमानः ॥yāti | devaḥ | pra-vatā | yāti | ut-vatā | yāti | śubhrābhyām | yajataḥ | hari-bhyām | ā | devaḥ | yāti | savitā | parāvataḥ | apa | viśvā | duḥ-itā | bādhamānaḥ