Sukta 1.35
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
ā́ kṛṣṇéna rájasā vártamāno nivéśayann amṛ́taṁ mártyaṁ ca | hiraṇyáyena savitā́ ráthenā devó yā́ti bhúvanāni páśyan ||
Moving through the dark dust, Savitṛ comes, setting in their places both the immortal and the mortal. On his golden chariot the god journeys, seeing the worlds—bringing an ordering vision that arranges our death-bound movements in the light of the deathless.
आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒ऽवे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ । हि॒र॒ण्यये॑न । स॒वि॒ता रथे॒न॑ । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न् ॥आ । कृष्णेन । रजसा । वर्तमानः । निवेशयन् । अमृतम् । मर्त्यम् । च । हिरण्ययेन । सविता रथेन । आ । देवः । याति । भुवनानि । पश्यन् ॥ā | kṛṣṇena | rajasā | vartamānaḥ | ni-veśayan | amṛtam | martyam | ca | hiraṇyayena | savitā rathena | ā | devaḥ | yāti | bhuvanāni | paśyan