Sukta 1.35
ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे । तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥
ये ते॒ पन्था॑: सवितः पू॒र्व्यासो॑ऽरे॒णव॒: सुकृ॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभि॑: सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥
yé te pánthāḥ savitaḥ pūrvyā́so ’reṇávaḥ su-kṛ́tā antárikṣe | tébhir no adyá pathíbhiḥ su-gébhī rákṣā ca no ádhi ca brūhi deva ||
O Savitar, those ancient paths of yours—dustless and well-fashioned in the mid-region—by those good-going ways guard us today; and also speak over us (within us), O god, the guiding word of right direction.
ये । ते॑ । पन्थाः॑ । स॒वि॒त॒रिति॑ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सुऽकृ॑ताः । अ॒न्तरि॑क्षे । तेभिः॑ । नः॒ । अ॒द्य । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ ॥ये । ते । पन्थाः । सवितरिति । पूर्व्यासः । अरेणवः । सुकृताः । अन्तरिक्षे । तेभिः । नः । अद्य । पथिभिः । सुगेभिः । रक्ष । च । नः । अधि । च । ब्रूहि । देव ॥ye | te | panthāḥ | savitariti | pūrvyāsaḥ | areṇavaḥ | su-kṛtāḥ | antarikṣe | tebhiḥ | naḥ | adya | pathi-bhiḥ | su-gebhiḥ | rakṣa | ca | naḥ | adhi | ca | brūhi | deva