Sukta 1.34
त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना । युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥
त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभि॑: ॥
tríś cin no adyā́ bhavataṃ navedasā vibhúr vāṃ yā́ma utá rātír aśvinā | yuvór hí yantráṃ himyéva vā́saso ’bhyāyaṃsényā bhavataṃ manīṣíbhīḥ ||
Be with us even thrice today, O Aśvins, you who bring ever-new knowledge; wide is your coming and your gift. For yours is the harness like a winter garment—close-fitting and protective; become for our thinkers a swift help that draws near in time.
त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । नवेदसा । वि॒ऽभुः । वा॒म् । यामः॑ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ । यु॒वोः । हि । य॒न्त्रम् । हि॒म्याऽइ॑व । वास॑सः । अ॒भि॒ऽआ॒यं॒सेन्या॑ । भ॒व॒त॒म् । म॒नी॒षिऽभिः॑ ॥त्रिः । चित् । नः । अद्य । भवतम् । नवेदसा । विभुः । वाम् । यामः । उत । रातिः । अश्विना । युवोः । हि । यन्त्रम् । हिम्याइव । वाससः । अभिआयंसेन्या । भवतम् । मनीषिभिः ॥triḥ | cit | naḥ | adya | bhavatam | navedasā | vi-bhuḥ | vām | yāmaḥ | uta | rātiḥ | aśvinā | yuvoḥ | hi | yantram | himyāiva | vāsasaḥ | abhi-āyaṃsenyā | bhavatam | manīṣi-bhiḥ