Sukta 1.33
उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि । इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः स्तोतृभ्यो हव्यो अस्ति यामन् ॥
उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि । इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥
upéd aháṃ dhanadā́m ápratītaṃ júṣṭāṃ ná śyéno vásatiṃ patāmi | índraṃ namasyán upamébhiḥ arkáir yáḥ stotṛ́bhyo hávyo ásti yā́man ||
To that unopposed giver of plenitude I fly, as a falcon to a cherished home. With fitting hymns I bow to Indra, who in the journey is the true oblation for the singers—he becomes the answer and the food of the call.
इत् । अ॒हम् । ध॒न॒ऽदाम् । अप्र॑तिऽइतम् । जुष्टा॑म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ । इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒ऽमेभिः॑ । अ॒र्कैः । यः । स्तो॒तृऽभ्यः॑ । हव्यः॑ । अस्ति॑ । याम॑न् ॥इत् । अहम् । धनदाम् । अप्रतिइतम् । जुष्टाम् । न । श्येनः । वसतिम् । पतामि । इन्द्रम् । नमस्यन् । उपमेभिः । अर्कैः । यः । स्तोतृभ्यः । हव्यः । अस्ति । यामन् ॥upa | it | aham | dhana-dām | aprati-itam | juṣṭām | na | śyenaḥ | vasatim | patāmi | indram | namasyan | upa-mebhiḥ | arkaiḥ | yaḥ | stotṛ-bhyaḥ | havyaḥ | asti | yāman