Sukta 1.33
एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति । अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ॥
एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति । अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥
etā́yām ópa gavyánta índram asmā́kaṃ sú prámatiṃ vāvṛdhāti | anāmṛṇáḥ kúvid ād asyá rāyó gavā́ṃ kétaṃ páramā́varjate naḥ ||
In this movement we seek Indra as seekers of the luminous herds; he increases our right discernment. May the debtless One, from his plenitude, turn back to us the highest sign of the Rays of Light—restoring the supreme direction of the inner wealth.
आ । इ॒त॒ । अया॒म । उप॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । अ॒स्माक॑म् । सु । प्रऽम॑तिम् । व॒वृ॒धा॒ति॒ । अ॒ना॒मृ॒णः । कु॒वित् । आत् । अ॒स्य । रा॒यः । गवा॒म् । केत॑म् । पर॑म् । आ॒ऽवर्ज॑ते । नः॒ ॥आ । इत । अयाम । उप । गव्यन्तः । इन्द्रम् । अस्माकम् । सु । प्रमतिम् । ववृधाति । अनामृणः । कुवित् । आत् । अस्य । रायः । गवाम् । केतम् । परम् । आवर्जते । नः ॥ā | ita | ayāma | upa | gavyantaḥ | indram | asmākam | su | pra-matim | vavṛdhāti | anāmṛṇaḥ | kuvit | āt | asya | rāyaḥ | gavām | ketam | param | āvarjate | naḥ