Sukta 1.32
नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार । उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥
नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार । उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानु॑: शये स॒हव॑त्सा॒ न धे॒नुः ॥
nīcā́vayā abhavad vṛtráputrendró asyā́ áva vádhar jabhāra | úttarā sū́r ádharaḥ pútra āsīd dā́nuḥ śáye sahávatsā ná dhénuḥ ||
Low indeed became the mother of Vṛtra’s offspring; Indra brought down upon her the stroke. The upper was the mother, the lower became the son; Dānu lay like a cow with her calf—power fallen into inert dependence.
नी॒चाऽव॑याः । अ॒भ॒व॒त् । वृ॒त्रऽपु॑त्रा । इन्द्रः॑ । अ॒स्याः॒ । अव॑ । वधः॑ । ज॒भा॒र॒ । उत्ऽत॑रा । सूः । अध॑रः । पु॒त्रः । आ॒सी॒त् । दानुः॑ । श॒ये॒ । स॒हऽव॑त्सा । न । धे॒नुः ॥नीचावयाः । अभवत् । वृत्रपुत्रा । इन्द्रः । अस्याः । अव । वधः । जभार । उत्तरा । सूः । अधरः । पुत्रः । आसीत् । दानुः । शये । सहवत्सा । न । धेनुः ॥nīcāvayāḥ | abhavat | vṛtra-putrā | indraḥ | asyāḥ | ava | vadhaḥ | jabhāra | ut-tarā | sūḥ | adharaḥ | putraḥ | āsīt | dānuḥ | śaye | saha-vatsā | na | dhenuḥ