Sukta 1.32
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥
अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् । वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥
átiṣṭhantīnām aniveśanā́nāṃ kā́ṣṭhānāṃ mádhye níhitaṃ śárīram | vṛtrásya niṇyáṃ ví caranty ā́po dī́rghaṃ táma ā́śayad índraśatruḥ ||
Among the standing posts that have no resting-place, in the midst of the timbers, the body lay hidden. The waters move freely through the secret lair of Vṛtra; the foe of Indra lay stretched into a long darkness—power of obstruction turned into inert night.
अति॑ष्ठन्तीनाम् । अ॒नि॒ऽवे॒श॒नाना॑म् । काष्ठा॑नाम् । मध्ये॑ । निऽहि॑तम् । शरी॑रम् । वृ॒त्रस्य॑ । नि॒ण्यम् । वि । च॒र॒न्ति॒ । आपः॑ । दी॒र्घम् । तमः॑ । आ । अ॒श॒य॒त् । इन्द्र॑ऽशत्रुः ॥अतिष्ठन्तीनाम् । अनिवेशनानाम् । काष्ठानाम् । मध्ये । निहितम् । शरीरम् । वृत्रस्य । निण्यम् । वि । चरन्ति । आपः । दीर्घम् । तमः । आ । अशयत् । इन्द्रशत्रुः ॥atiṣṭhantīnām | ani-veśanānān | kāṣṭhānām | madhye | ni-hitam | śarīram | vṛtrasya | niṇyam | vi | caranti | āpaḥ | dīrgham | tamaḥ | ā | aśayat | indra-śatruḥ