Sukta 1.32
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः । याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥
न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्याप॑: । याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महि॑: पत्सुत॒:शीर्ब॑भूव ॥
nadáṃ na bhinnám amuyā́ śáyānaṃ máno ruhā́ṇā áti yánty ā́paḥ | yā́ś cid vṛtró mahinā́ paryátiṣṭhat tā́sām áhiḥ patsutáḥśīr babhūva ||
Like a river whose dam is broken, the waters pass beyond him as he lies there; they rise, as it were, in the mind and surge over. Even those waters which Vṛtra with his might had held all around—of them the serpent became a dust-heap at the feet.
न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शया॑नम् । मनः॑ । रुहा॑णाः । अति॑ । य॒न्ति॒ । आपः॑ । याः । चि॒त् । वृ॒त्रः । म॒हि॒ना । प॒रि॒ऽअति॑ष्ठत् । तासा॑म् । अहिः॑ । प॒त्सु॒तः॒शीः । ब॒भू॒व॒ ॥नदम् । न । भिन्नम् । अमुया । शयानम् । मनः । रुहाणाः । अति । यन्ति । आपः । याः । चित् । वृत्रः । महिना । परिअतिष्ठत् । तासाम् । अहिः । पत्सुतःशीः । बभूव ॥nadam | na | bhinnam | amuyā | śayānam | manaḥ | ruhāṇāḥ | ati | yanti | āpaḥ | yāḥ | cit | vṛtraḥ | mahinā | pari-atiṣṭhat | tāsām | ahiḥ | patsutaḥśīḥ | babhūva