Sukta 1.32
अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान । वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥
अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान । वृष्णो॒ वध्रि॑: प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥
apā́d ahásto apṛtanyád índram ā́sya vájram ádhi sā́nau jaghāna | vṛ́ṣṇo vádhriḥ pratímānaṃ bubhū́ṣan purutrā́ vṛtró aśayád vyàstaḥ ||
Footless and handless, he yet fought against Indra; he struck at his thunderbolt upon the summit. Seeking to match the Bull’s measure, the impotent one—Vṛtra—lay cast down in many places, scattered.
अ॒पात् । अ॒ह॒स्तः । अ॒पृ॒त॒न्य॒त् । इन्द्र॑म् । आ । अ॒स्य॒ । वज्र॑म् । अधि॑ । सानौ॑ । ज॒घा॒न॒ । वृष्णः॑ । वध्रिः॑ । प्र॒ति॒ऽमान॑म् । बुभू॑षन् । पु॒रु॒ऽत्रा । वृ॒त्रः । अ॒श॒य॒त् । विऽअ॑स्तः ॥अपात् । अहस्तः । अपृतन्यत् । इन्द्रम् । आ । अस्य । वज्रम् । अधि । सानौ । जघान । वृष्णः । वध्रिः । प्रतिमानम् । बुभूषन् । पुरुत्रा । वृत्रः । अशयत् । विअस्तः ॥apāt | ahastaḥ | apṛtanyat | indram | ā | asya | vajram | adhi | sānau | jaghāna | vṛṣṇaḥ | vadhriḥ | prati-mānam | bubhūṣan | puru-trā | vṛtraḥ | aśayat | vi-astaḥ