Sukta 1.32
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् । नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥
अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् । नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जाना॑: पिपिष॒ इन्द्र॑शत्रुः ॥
ayoddhā́iva durmáda ā́ hí juhve mahāvī́raṃ tuvibā́dham ṛjī́ṣam | nā́tārīd asya samṛ́tiṃ vadhā́nāṃ sáṃ rujā́nāḥ pipiṣe índraśatruḥ ||
Like a fighter in drunken pride he challenged—he challenged the great hero, the mighty smiter, the straight-driving force. He could not cross beyond the onset of those blows; being shattered, the foe of Indra was crushed to powder.
अ॒यो॒द्धाऽइ॑व॑ । दुः॒ऽमदः॑ । आ । हि । जु॒ह्वे । म॒हा॒ऽवी॒रम् । तु॒वि॒ऽबा॒धम् । ऋ॒जी॒षम् । न । अ॒ता॒री॒त् । अ॒स्य॒ । सम्ऽऋ॑तिम् । व॒धाना॑म् । सम् । रु॒जानाः॑ । पि॒पि॒षे॒ । इन्द्र॑ऽशत्रुः ॥अयोद्धाइव । दुःमदः । आ । हि । जुह्वे । महावीरम् । तुविबाधम् । ऋजीषम् । न । अतारीत् । अस्य । सम्ऋतिम् । वधानाम् । सम् । रुजानाः । पिपिषे । इन्द्रशत्रुः ॥ayoddhāiva | duḥ-madaḥ | ā | hi | juhve | mahāvīram | tuvi-bādham | ṛjīṣam | na | tārīt | asya | sam-ṛtim | vadhānām | sam | rujānāḥ | pipiṣe | indra-śatruḥ