Sukta 1.32
अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन । स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥
अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहि॑: शयत उप॒पृक्पृ॑थि॒व्याः ॥
áhan vṛtráṃ vṛtrátaraṃ vyàṃsam índro vájreṇa mahatā́ vadhéna | skándhāṃsīva kúliśenā vívṛkṇā́híḥ śáyata upapṛ́k pṛthivyā́ḥ ||
Indra smote Vṛtra, the more Vṛtra-like, the spreader-out (of blockage), with the thunderbolt, with the great act of slaying. Like shoulders hewn by an axe, the serpent lay torn apart, clinging low upon the Earth—power of obstruction brought to collapse.
अह॑न् । वृ॒त्र॑म् । वृ॒त्र॒ऽतर॑म् । विऽअं॑सम् । इन्द्रः॑ । वज्रे॑ण । म॒ह॒ता । व॒धेन॑ । स्कन्धां॑सिऽइव । कुलि॑शेन । विऽवृ॑क्णा । अहिः॑ । श॒य॒ते॒ । उ॒प॒ऽपृक् । पृ॒थि॒व्याः ॥अहन् । वृत्रम् । वृत्रतरम् । विअंसम् । इन्द्रः । वज्रेण । महता । वधेन । स्कन्धांसिइव । कुलिशेन । विवृक्णा । अहिः । शयते । उपपृक् । पृथिव्याः ॥ahan | vṛtram | vṛtra-taram | vi-aṃsam | indraḥ | vajreṇa | mahatā | vadhena | skandhāṃsi-iva | kuliśena | vi-vṛkṇā | ahiḥ | śayate | upa-pṛk | pṛthivyāḥ