Sukta 1.32
यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः । आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥
यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑ना॒: प्रोत मा॒याः । आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
yád índrā́han prathamajā́m áhīnām ā́n māyínām ámināḥ prá uta māyā́ḥ | ā́t sū́ryaṃ janáyan dyā́m uṣā́saṃ tā́dītnā́ śátruṃ ná kilā́ vivitse ||
When Indra struck down the first-born of the serpents, then he broke the powers of the magicians and their enchantments. From that he brought the Sun to birth, and the Heaven and the Dawn; thus indeed he sought no enemy thereafter.
यत् । इ॒न्द्र॒ । अह॑न् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् । आत् । मा॒यिना॑म् । अमि॑नाः । प्र । उ॒त । मा॒याः । आत् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षास॑म् । ता॒दीत्ना॑ । शत्रु॑म् । न । किला॑ । वि॒वि॒त्से॒ ॥यत् । इन्द्र । अहन् । प्रथमजाम् । अहीनाम् । आत् । मायिनाम् । अमिनाः । प्र । उत । मायाः । आत् । सूर्यम् । जनयन् । द्याम् । उषासम् । तादीत्ना । शत्रुम् । न । किला । विवित्से ॥yat | indra | ahan | prathama-jām | ahīnām | āt | māyinām | amināḥ | pra | uta | māyāḥ | āt | sūryam | janayan | dyām | uṣāsam | tādītnā | śatrum | na | kilā | vivitse