Sukta 1.32
वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य । आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥
वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥
vṛṣāyámāṇo ’vṛṇīta sómaṃ trikádrukeṣv apibat sutásya | ā sā́yakaṃ maghávā́ datta vájram áhann enaṃ prathamajā́m áhīnām ||
Growing into the force of the Bull, he chose the Soma; in the triple-pressing seats he drank of the expressed delight. Then the Bounteous One took up the missile, he laid hold of the thunderbolt; and he smote that first-born of the serpentine powers of obstruction.
वृ॒ष॒ऽयमा॑णः । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । आ । साय॑कम् । म॒घवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् ॥वृषयमाणः । अवृणीत । सोमम् । त्रिकद्रुकेषु । अपिबत् । सुतस्य । आ । सायकम् । मघवा । अदत्त । वज्रम् । अहन् । एनम् । प्रथमजाम् । अहीनाम् ॥vṛṣa-yamāṇaḥ | avṛṇīta | somam | tri-kadrukeṣu | apibat | sutasya | ā | sāyakam | maghavā | adatta | vajram | ahan | enam | prathama-jām | ahīnām