Sukta 1.32
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नव॒: स्यन्द॑माना॒ अञ्ज॑: समु॒द्रमव॑ जग्मु॒राप॑: ॥
ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭā asmai vajraṃ svaryaṃ tatakṣa | vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ ||
He struck the Serpent who had taken refuge upon the mountain; Tvaṣṭṛ fashioned for him the heaven-winning thunder-force. Then the waters, streaming like lowing cows, went swiftly down to the ocean.
अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य॑म् । त॒त॒क्ष॒ । वा॒श्राःऽइ॑व । धे॒नवः॑ । स्यन्द॑मानाः । अञ्जः॑ । स॒मु॒द्रम् । अव॑ । ज॒ग्मुः॒ । आपः॑ ॥अहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष । वाश्राःइव । धेनवः । स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः ॥ahan | ahim | parvate | śiśriyāṇam | tvaṣṭā | asmai | vajram | svaryam | tatakṣa | vāśrāḥ-iva | dhenavaḥ | syandamānāḥ | añjaḥ | samudram | ava | jagmuḥ | āpaḥ