Sukta 1.32
नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च । इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥
नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च । इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
nā́ asmai vidyút na tányatuḥ siṣedha ná yā́m míham ákirad hrā́duniṃ ca | índraś ca yád yuyudhā́te áhiś cotā́parībhyo maghávā ví jigye ||
Neither lightning nor thunder held him back, nor the cloud-mist that poured its roaring flood. When Indra and the Serpent came to grips in battle, the bountiful One won through, beyond all enclosing powers that would limit the soul’s advance.
न । अ॒स्मै॒ । वि॒द्युत् । न । त॒न्य॒तुः । सि॒से॒ध॒ । न । याम् । मिह॑म् । अकि॑रत् । ह्रा॒दुनि॑म् । च॒ । इन्द्रः॑ । च॒ । यत् । यु॒यु॒धाते॒ इति॑ । अहिः॑ । च॒ । उ॒त । अ॒प॒रीभ्यः॑ । म॒घऽवा॑ । वि । जि॒ग्ये॒ ॥न । अस्मै । विद्युत् । न । तन्यतुः । सिसेध । न । याम् । मिहम् । अकिरत् । ह्रादुनिम् । च । इन्द्रः । च । यत् । युयुधाते इति । अहिः । च । उत । अपरीभ्यः । मघवा । वि । जिग्ये ॥na | asmai | vidyut | na | tanyatuḥ | sisedha | na | yām | miham | akirat | hrādunim | ca | indraḥ | ca | yat | yuyudhāteiti | ahiḥ | ca | uta | aparībhyaḥ | magha-vā | vi | jigye