Sukta 1.32
दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः । अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार ॥
दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आप॑: प॒णिने॑व॒ गाव॑: । अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥
dāsápatnīr áhigopā atiṣṭhanníruddhā ā́paḥ paṇíneva gā́vaḥ | apā́ṃ bílam ápihitaṃ yád āsīd vṛtráṃ jaghanvā́ṃ ápa tád vavāra ||
The waters, with the Dāsa as husband and the serpent as guardian, stood held back—like cows penned by the Paṇi. When the cavern of the waters was shut, Indra, slaying Vṛtra, uncovered and opened that barrier away.
दा॒सऽप॑त्नीः॒ । अहि॑ऽगोपाः । अ॒ति॒ष्ठ॒न् । निऽरु॑द्धाः । आपः॑ । प॒णिना॑ऽइव । गावः॑ । अ॒पाम् । बिल॑म् । अपि॑ऽहितम् । यत् । आसी॑त् । वृ॒त्रम् । ज॒घ॒न्वान् । अप॑ । तत् । व॒वा॒र॒ ॥दासपत्नीः । अहिगोपाः । अतिष्ठन् । निरुद्धाः । आपः । पणिनाइव । गावः । अपाम् । बिलम् । अपिहितम् । यत् । आसीत् । वृत्रम् । जघन्वान् । अप । तत् । ववार ॥dāsa-patnīḥ | ahi-gopāḥ | atiṣṭhan | ni-ruddhāḥ | āpaḥ | paṇināiva | gāvaḥ | apām | bilam | api-hitam | yat | āsīt | vṛtram | jaghanvān | apa | tat | vavāra