Sukta 1.31
त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः । तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥
त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः । त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥
tváṃ no agne pitrór upástha ā́ devó devéṣv anavádya jā́gṛviḥ | tanū-kṛ́d bódhi prámatíś ca kāráve tváṃ kalyā́ṇa vásu víśvam ā́ ūpiṣe ||
O Agni, come to us into the lap of the two parents, a god wakeful and faultless among the gods. Become the shaper of our being and our wise guidance for the maker; you, O auspicious one, bring near to us all riches of harmony and power.
त्वम् । नः॒ । अ॒ग्ने॒ । पि॒त्रोः । उ॒पऽस्थे॑ । आ । दे॒वः । दे॒वेषु॑ । अ॒न॒व॒द्य॒ । जागृ॑विः । त॒नू॒ऽकृत् । बो॒धि॒ । प्रऽम॑तिः । च॒ । का॒रवे॑ । त्वम् । क॒ल्या॒ण॒ । वसु॑ । विश्व॑म् । आ । ऊ॒पि॒षे॒ ॥त्वम् । नः । अग्ने । पित्रोः । उपस्थे । आ । देवः । देवेषु । अनवद्य । जागृविः । तनूकृत् । बोधि । प्रमतिः । च । कारवे । त्वम् । कल्याण । वसु । विश्वम् । आ । ऊपिषे ॥tvam | naḥ | agne | pitroḥ | upa-sthe | ā | devaḥ | deveṣu | anavadya | jāgṛviḥ | tanū-kṛt | bodhi | pra-matiḥ | ca | kārave | tvam | kalyāṇa | vasu | viśvam | ā | ūpiṣe