Sukta 1.31
त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् । सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यम् । सं त्वा॒ राय॑: श॒तिन॒: सं स॑ह॒स्रिण॑: सु॒वीरं॑ यन्ति व्रत॒पाम॑दाभ्य ॥
tvám agne prámatís tváṃ pitā́si naḥ tváṃ vayaḥ-kṛ́t táva jāmáyo vayám | sáṃ tvā rā́yaḥ śatínaḥ sáṃ sahasríṇaḥ suvī́raṃ yanti vrata-pā́m adā́bhya ||
O Agni, you are our guiding thought, you are our father; you are the maker of our growth—we are your kin. To you come the riches by hundreds and by thousands, bringing heroic force, to you the guardian of the law, invincible.
त्वम् । अ॒ग्ने॒ । प्रऽम॑तिः । त्वम् । पि॒ता । अ॒सि॒ । नः॒ । त्वम् । व॒यः॒ऽकृत् । तव॑ जा॒मयः॑ । व॒यम् । सम् । त्वा॒ । रायः॑ । श॒तिनः॒ । सम् । स॒ह॒स्रिणः॑ । सु॒वीर॑म् । य॒न्ति॒ । व्र॒त॒ऽपाम् । अ॒दा॒भ्य॒ ॥त्वम् । अग्ने । प्रमतिः । त्वम् । पिता । असि । नः । त्वम् । वयःकृत् । तव जामयः । वयम् । सम् । त्वा । रायः । शतिनः । सम् । सहस्रिणः । सुवीरम् । यन्ति । व्रतपाम् । अदाभ्य ॥tvam | agne | pra-matiḥ | tvam | pitā | asi | naḥ | tvam | vayaḥ-kṛt | tavajāmayaḥ | vayam | sam | tvā | rāyaḥ | śatinaḥ | sam | sahasriṇaḥ | suvīram | yanti | vrata-pām | adābhya