Sukta 1.31
त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवेदिवे । यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥
त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे । यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मय॑: कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑ ॥
tváṃ tám agne amṛta-tvá uttamé mártaṃ dadhāsi śrávase divé-dive | yás tātṛṣāṇá ubháyāya jánmane máyaḥ kṛṇóṣi práya ā́ ca sū́raye ||
O Agni, that mortal you place in the highest immortality, for glory day by day. He who strives for both births, you make joy and full delight for him, and you bring forward the nourishment and the advance for the illumined worker.
त्वम् । तम् । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वे । उ॒त्ऽत॒मे । मर्त॑म् । द॒धा॒सि॒ । श्रव॑से । दि॒वेऽदि॑वे । यः । त॒तृ॒षा॒णः । उ॒भया॑य । जन्म॑ने । मयः॑ । कृ॒णोषि॑ । प्रयः॑ । आ । च॒ । सू॒रये॑ ॥त्वम् । तम् । अग्ने । अमृतत्वे । उत्तमे । मर्तम् । दधासि । श्रवसे । दिवेदिवे । यः । ततृषाणः । उभयाय । जन्मने । मयः । कृणोषि । प्रयः । आ । च । सूरये ॥tvam | tam | agne | amṛta-tve | ut-tame | martam | dadhāsi | śravase | dive--dive | yaḥ | tatṛṣāṇaḥ | ubhayāya | janmane | mayaḥ | kṛṇoṣi | prayaḥ | ā | ca | sūraye