Sukta 1.31
त्वमग्ने वृजिनवर्तनिं नरं सक्मन्पिपर्षि विदथे विचर्षणे । यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥
त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे । यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥
tvám agne vṛjiná-vartaniṃ náraṃ sákman piparṣi vidáthē vi-carṣaṇe | yáḥ śū́ra-sātā pári-takmye dhánē dabh́rebhiś cit sám-ṛtā háṃsi bhū́yasaḥ ||
O Agni, you carry safely the man who moves on the perilous path, in every assembly, O discerner of men. When in the circling battle for the hero’s gain, even with scant means he strives by the right, you smite the greater opposing powers.
त्वम् । अ॒ग्ने॒ । वृ॒जि॒नऽव॑र्तनिम् । नर॑म् । सक्म॑न् । पि॒प॒र्षि॒ । वि॒दथे॑ । वि॒ऽच॒र्ष॒णे॒ । यः । शूर॑ऽसाता । परि॑ऽतक्म्ये । धने॑ । द॒भ्रेभिः॑ । चि॒त् । सम्ऽऋ॑ता । हंसि॑ । भूय॑सः ॥त्वम् । अग्ने । वृजिनवर्तनिम् । नरम् । सक्मन् । पिपर्षि । विदथे । विचर्षणे । यः । शूरसाता । परितक्म्ये । धने । दभ्रेभिः । चित् । सम्ऋता । हंसि । भूयसः ॥tvam | agne | vṛjina-vartanim | naram | sakman | piparṣi | vidathe | vi-carṣaṇe | yaḥ | śūra-sātā | pari-takmye | dhane | dabhrebhiḥ | cit | sam-ṛtā | haṃsi | bhūyasaḥ