Sukta 1.31
त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः । य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥
त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्य॑: । य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि ॥
tvám agne vṛṣabháḥ puṣṭí-várdhana údyata-sruce bhavasi śravā́yyaḥ | yá āhútim pári védā váṣaṭ-kṛ́tim ékāyur ágre víśa āvivā́sasi ||
O Agni, you are the bull, increaser of plenitude; when the ladle is raised you become the one worthy of hearing and fame. You who know the offering all around, and the Vaṣaṭ-cry that seals it—you, the one life in the front, lead the peoples into adoration.
त्वम् । अ॒ग्ने॒ । वृ॒ष॒भः । पु॑ष्टि॒ऽवर्ध॑नः । उद्य॑तऽस्रुचे । भ॒व॒सि॒ । श्र॒वाय्यः॑ । यः । आऽहु॑तिम् । परि॑ । वेद॑ । वष॑ट्ऽकृतिम् । एक॑ऽआयुः । अग्ने॑ । विशः॑ । आ॒ऽविवा॑ससि ॥त्वम् । अग्ने । वृषभः । पुष्टिवर्धनः । उद्यतस्रुचे । भवसि । श्रवाय्यः । यः । आहुतिम् । परि । वेद । वषट्कृतिम् । एकआयुः । अग्ने । विशः । आविवाससि ॥tvam | agne | vṛṣabhaḥ | puṣṭi-vardhanaḥ | udyata-sruce | bhavasi | śravāyyaḥ | yaḥ | āhutim | pari | veda | vaṣaṭ-kṛtim | eka-āyuḥ | agne | viśaḥ | āvivāsasi