Sukta 1.31
त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः । श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥
त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः । श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुन॑: ॥
tvám agne mánave dyā́m avāśayaḥ purūrắvase su-kṛ́te su-kṛ́t-taraḥ | śvātréṇa yát pitrór múcyase párī ā́ tvā pū́rvam anayan nā́param púnaḥ ||
O Agni, for Manu you made the heaven a dwelling; for Purūravas, the well-doer, you became the yet greater doer. When by your own strength you are released from your parents, they lead you first around and then again onward—so you may grow into your further work.
त्वम् । अ॒ग्ने॒ । मन॑वे । द्याम् । अ॒वा॒श॒यः॒ । पु॒रू॒रव॑से । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः । श्वा॒त्रेण॑ । यत् । पि॒त्रोः । मुच्य॑से । परि॑ । आ । त्वा॒ । पूर्व॑म् । अ॒न॒य॒न् । आ । अप॑रम् । पुन॒रिति॑ ॥त्वम् । अग्ने । मनवे । द्याम् । अवाशयः । पुरूरवसे । सुकृते । सुकृत्तरः । श्वात्रेण । यत् । पित्रोः । मुच्यसे । परि । आ । त्वा । पूर्वम् । अनयन् । आ । अपरम् । पुनरिति ॥tvam | agne | manave | dyām | avāśayaḥ | purūravase | su-kṛte | sukṛt-taraḥ | śvātreṇa | yat | pitroḥ | mucyase | pari | ā | tvā | pūrvam | anayan | ā | aparam | punariti