Sukta 1.31
त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम् । विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् । वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥
tvám agne prathamó aṅgirás-tamaḥ kavír devā́nāṃ pári bhūṣasi vratám | vibhúr víśvasmai bhúvanāya médhiro dvi-mātā́ śayúḥ katidhā́ cid ā́yave ||
O Agni, you are the most Angiras, the first—seer-poet who fashions and perfects the law of the gods. Wide in being for all existence, you are the wise intelligence; double-born, you rest in many forms for the life-soul’s growth.
त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । अङ्गि॑रःऽतमः । क॒विः । दे॒वाना॑म् । परि॑ । भू॒ष॒सि॒ । व्र॒तम् । वि॒ऽभुः । विश्व॑स्मै । भुव॑नाय । मेधि॑रः । द्वि॒ऽमा॒ता । श॒युः । क॒ति॒धा । चि॒त् । आ॒यवे॑ ॥त्वम् । अग्ने । प्रथमः । अङ्गिरःतमः । कविः । देवानाम् । परि । भूषसि । व्रतम् । विभुः । विश्वस्मै । भुवनाय । मेधिरः । द्विमाता । शयुः । कतिधा । चित् । आयवे ॥tvam | agne | prathamaḥ | aṅgiraḥ-tamaḥ | kaviḥ | devānām | pari | bhūṣasi | vratam | vi-bhuḥ | viśvasmai | bhuvanāya | medhiraḥ | dvi-mātā | śayuḥ | katidhā | cit | āyave