Sukta 1.31
त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा । तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ । तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥
tvám agne prathamó aṅgírā́ ṛ́ṣir devó devā́nām abhavaḥ śiváḥ sákhā | táva vraté kaváyo vidmánā́páso ’ájāyanta marúto bhrā́jad-ṛ́ṣṭayaḥ ||
O Agni, you are the first Angiras—seer and divine power among the gods, a blissful friend. In the law of your working, the luminous poets, skilled in the knowledge of action, are born; and the Maruts arise with shining spears—forces of the storm of energy that clear the way for the Truth.
त्वम् । अ॒ग्ने॒ । प्र॒थ॒माः । अङ्गि॑राः । ऋषिः॑ । दे॒वः । दे॒वाना॑म् । अ॒भ॒वः॒ । शि॒वः । सखा॑ । तव॑ । व्र॒ते । क॒वयः॑ । वि॒द्म॒नाऽअ॑पसः । अजा॑यन्त । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥त्वम् । अग्ने । प्रथमाः । अङ्गिराः । ऋषिः । देवः । देवानाम् । अभवः । शिवः । सखा । तव । व्रते । कवयः । विद्मनाअपसः । अजायन्त । मरुतः । भ्राजत्ऋष्टयः ॥tvam | agne | prathamāḥ | aṅgirā | ṛṣiḥ | devaḥ | devānām | abhavaḥ | śivaḥ | sakhā | tava | vrate | kavayaḥ | vidmanāapasaḥ | ajāyanta | marutaḥ | bhrājat-ṛṣṭayaḥ