Sukta 1.31
त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे । यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥
त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे । यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ॥
tvam agne yajyave pāyur antaraḥ’niṣaṅgāya catur-akṣa idhyase | yo rāta-havyo’vṛkāya dhāyase kīreś cit mantraṃ manasā vanoṣi tam ||
O Agni, for the one who offers you are the inner protector; you are kindled as a four-eyed watch against the attacker. You who are upheld for the harmless one with offerings given—yes, you win even the singer’s mantra by your mind, that power of thought.
त्वम् । अ॒ग्ने॒ । यज्य॑वे । पा॒युः । अन्त॑रः । अ॒नि॒ष॒ङ्गाय॑ । च॒तुः॒ऽअ॒क्षः । इ॒ध्य॒से॒ । यः । रा॒तऽह॑व्यः । अ॒वृ॒काय॑ । धाय॑से । की॒रेः । चि॒त् । मन्त्र॑म् । मन॑सा । व॒नोषि॑ । तम् ॥त्वम् । अग्ने । यज्यवे । पायुः । अन्तरः । अनिषङ्गाय । चतुःअक्षः । इध्यसे । यः । रातहव्यः । अवृकाय । धायसे । कीरेः । चित् । मन्त्रम् । मनसा । वनोषि । तम् ॥tvam | agne | yajyave | pāyuḥ | antaraḥ | aniṣaṅgāya | catuḥ-akṣaḥ | idhyase | yaḥ | rāta-havyaḥ | avṛkāya | dhāyase | kīreḥ | cit | mantram | manasā | vanoṣi | tam